SACRED TEXTS

Sri suktam

ॐ हिरण्यवर्णा हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्यमयीं लक्ष्मीं जातवेदो मऽआवह।।1।।
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्या हिरण्यं विन्देयं गामश्वं पुरुषानहम् ।।2।।
अश्वपूर्णा रथमध्यां हस्तिनादप्रमोदिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवीजुषताम् ।।3।।
कां सोस्मितां हिरण्यप्राकारामाद्रा ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मस्थितां पद्मवर्णा तामिहो पह्वये श्रियम् ।।4।।
चन्द्रां प्रभासां यशसा ज्वल्न्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनींमीं शरण प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणोमि ।।5।।
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फ़लानि तपसानुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मीः ।।6।।
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कीर्तिमृद्धिं ददातु मे ।।7।।  
क्षुत्पिपासामलां जयेष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वा निणुद मे गृहात् ।।8।।  
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।।9।।  
 
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशुनां रुपमन्नस्य मयि श्रीः श्रयतां यशः ।।10।।     
कर्दमेन प्रजाभूता मयि सम्भवकर्दम ।
श्रियं वासय मे कुले मातरं पद्मालिनीम् ।।11।।     
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
निच देवी मातरं श्रियं वासय मे कुले ।।12।।     
आर्द्रा पुष्करिणीं पुष्टिं पिंगलां पद्मालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मी जातवेदो में आवह ।।13।।     
आर्द्रा यः करिणीं यष्टिं सुवर्णा हेममालिनीम् ।
सूर्या हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।।14।।     
तां म ऽ आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्या हिरण्य प्रभूतं गावो दास्योऽश्वन्विन्देयं पुरुषानहम् ।।15।।     
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तमं पंचदशर्च च श्रीकामः सततं जपेत् ।।16।।